|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.29. अध्यायः 029
अथानुगीतापर्व-2
Mahabharata - Ashvamedhika Parva - Chapter Topics
कृष्णेनार्जुनंप्रति यागीयहिंसाया अधर्म्यत्वाभावप्रतिपादकाध्वर्युयतिसंवादानुवादः॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
ब्राह्मण उवाच।
गन्धान्न जिघ्रामि रासान्न वेद्मि
रूपं न पश्यामि न च स्पृशामि।
न चापि शब्दान्विविधाञ्शृणोमि
न चापि सङ्कल्पमुपैमि कञ्चित्॥ 14-29-1(93186)
अर्थानिष्टान्कामयते स्वभावः
सर्वान्द्वेष्यान्प्रद्विषते स्वभावः।
कामद्वेषानुद्भवतः स्वभावा-
त्प्राणापानौ जन्तुदेहान्निवेश्य॥ 14-29-2(93187)
तेभ्यश्चान्यांस्तेषु नित्यांश्च भावा-
न्भूतात्मानं अक्षयेऽहं शरीरे।
तस्मिंस्तिष्ठन्नास्मि सक्तः कथंचि-
त्कामक्रोधाभ्यां जरया मृत्युना च॥ 14-29-3(93188)
अकामयानस्य च सर्वकामा-
नविद्विषाणस्य च सर्वदोषान्।
न मे स्वभावेषु भवन्ति लेपा-
स्तोयस्य बिन्दोरिव पुष्करेषु॥ 14-29-4(93189)
नित्यस्य चैतस्य भवन्ति नित्या
निरीक्ष्यमाणस्य बहून्स्वभावान्।
न सज्जते कर्मसु भोगजालं
दिवीव सूर्यस्य मयूखजालम्॥ 14-29-5(93190)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
अध्वर्युयतिसंवादं तं निबोध यशस्विनि॥ 14-29-6(93191)
प्रोक्ष्यमाणं पशुं दृष्ट्वा यज्ञकर्मण्यथाब्रवीत्।
यतिरध्वर्युमासीनो हिंसोयमिति कुत्सयन्॥ 14-29-7(93192)
तमध्वर्युः प्रत्युवाच नायं छागो विनश्यति।
श्रेयसा योक्ष्यते जन्तुर्यज्ञाच्छ्रुतिरियं तथा॥ 14-29-8(93193)
यो ह्यस्य पार्थिवो भागः पृथिवीं स गमिष्यति।
यदस्य वारिजं किञ्चिदपस्तत्सम्प्रवेक्ष्यति॥ 14-29-9(93194)
सूर्यं चक्षुर्दिशः श्रोत्रे प्राणोऽस्य दिवमेव च।
आगमे वर्तमानस्य नमे दोषोस्ति कश्चन॥ 14-29-10(93195)
यतिरुवाच। 14-29-11x(7832)
प्राणैर्वियोगे च्छागस्य यदि श्रेयः प्रपश्यसि।
छागार्थे वर्तते यज्ञो भवतः किं प्रयोजनम्॥ 14-29-11(93196)
अनु त्वां मन्यते माता अनु त्वां मन्यते पिता।
मन्त्रविज्ञानमुन्नीय परिवर्ते विशेषतः॥ 14-29-12(93197)
एवमेवानुमन्येरंस्तान्भवान्द्रष्टुमर्हति।
तेषामनुमतिं श्रुत्वा शक्या कर्तुं विचारणा॥ 14-29-13(93198)
अध्वर्युरुवाच। 14-29-14x(7833)
प्राणा अप्यस्य च्छागस्य प्रापितास्ते स्वयोनिषु।
शरीरं केवलं शिष्टं निश्चेष्टमिति मे मतिः॥ 14-29-14(93199)
इन्धनस्य तु तुल्येन शरीरेणि विचेतसा।
हिंसा हि यष्टुकामानामिन्धनं पशुसंज्ञितम्॥ 14-29-15(93200)
अहिंसा सर्वधर्माणामिति वृद्धानुशासनम्।
यदहिंस्रं भवेत्कर्म तत्कार्यमिति विद्महे॥ 14-29-16(93201)
अहिंसेति प्रतिज्ञेयं यदि वक्ष्याम्यतः परम्।
शक्यं बहुविधं वक्तुं भवता कार्यदूषणम्॥ 14-29-17(93202)
अहिंसा सर्वभूतानां नित्यमस्मासु रोचते।
प्रत्यक्षतः साधयामो न परोक्षमुपास्महे॥ 14-29-18(93203)
अध्वर्यरुवाच। 14-29-19x(7834)
भूमेर्गन्धगुणान्भुङ्क्ष्व पिबस्यापोमयान्रसान्।
ज्योतिषां पश्यते रूपं स्पृशस्यनिलजान्गुणान्॥ 14-29-19(93204)
शृणोष्याकाशजाञ्शब्दान्मनसा मन्यसे मतिम्।
सर्वाण्येतानि भूतानि प्राणा इति च मन्यसे॥ 14-29-20(93205)
प्राणादाने निवृत्तोसि हिंसायां वर्तते भवान्।
नास्ति चेष्टा विना हिंसां किं वा त्वं मन्यसे द्विज॥ 14-29-21(93206)
यतिरुवाच। 14-29-22x(7835)
अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः।
अक्षरं तत्र सद्भावः स्वभावः क्षर उच्यते॥ 14-29-22(93207)
प्राणो जिह्वा मनः सत्त्वं सद्भावो रजसा सह।
भावैरेतैर्विमुक्तस्य निर्द्वन्द्वस्य निराशिषः॥ 14-29-23(93208)
समस्य सर्वभूतेषु निर्ममस्य जितात्मनः।
समन्तात्परिमुक्तस्य न भयं विद्यते क्वचित्॥ 14-29-24(93209)
अध्वर्युरुवाच। 14-29-25x(7836)
सद्भिरेवेह संवादः कार्यो मतिमतांवर।
भवतो हि मतं श्रुत्वा प्रतिभाति मतिर्मम॥ 14-29-25(93210)
भगवन्भगवद्बुद्ध्या प्रतिबुद्धो ब्रवीम्यहम्।
व्रतं मन्त्रकृतं कर्तुर्नापराधोस्ति मे द्विज॥ 14-29-26(93211)
ब्राह्मण उवाच। 14-29-27x(7837)
उपपत्त्या यतिस्तूष्णीं वर्तमानस्ततः परम्।
अध्वर्युरपि निर्मोहः प्रचचार महामखे॥ 14-29-27(93212)
एवमेतादृशं मोक्षं सुसूक्ष्मं ब्राह्मणा विदुः।
विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनार्थदर्शिना॥ ॥ 14-29-28(93213)
इति श्रीमन्महाभारते आश्वमेदिकपर्वणि अनुगीतापर्वणि एकोनत्रिंशोऽध्यायः॥ 29 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-29-2 सर्वानेतान्द्वेष्टि चैव स्वभाव इति क.ट.पाठः। जन्तुदेहानिहैत्येति क.ट.पाठः॥ 7-29-3 नास्ति शक्यः कथंचिदिति क.ट.थ.पाठः॥ 7-29-12 अत्र त्वां मन्यतां भ्राता पिता माता सखेति च। मन्त्रयस्वैनमुन्नीय परवन्तं विशेषत इति झ.द.पाठः॥ 7-29-19 भूमेरिति नानुपहत्य भूतानि भोगः सम्भवतीति न्यायाज्जीवतोऽपरिहार्यैव हिंसेत्यर्थः॥ 7-29-21 किं कथं त्वं मन्यसेऽहिंसामिति शेषः॥ 7-29-26 मतं मन्तुं क्रतुं कर्तुमिति थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|